|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.102. अध्यायः 102
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरम्प्रति जलप्रभाववर्णनपूर्वकं तद्दानप्रशंसनम्॥ 1 ॥

Mahabharata - Anushaasana Parva - Chapter Text
युधिष्ठिर उवाच।
श्रुतं दानफलं तात यत्त्वया परिकीर्तितम्।
अन्नदानं विशेषेण प्रशस्तमिह भारत॥ 13-102-1(85552)
पानीयदानमेवैतत्कथं चेह महाफलम्।
इत्येतच्छ्रोतुमिच्छामि विस्तरेण पितामह॥ 13-102-2(85553)
भीष्म उवाच। 13-102-3x(7100)
हन्त ते वर्तयिष्यामि यथावद्भरतर्षभ।
गदतस्तन्ममाद्येह शृणु सत्यपराक्रम।
पानीयदानात्प्रभृति सर्वं वक्ष्यामि तेऽनघ॥ 13-102-3(85554)
यदन्नं यच्च पानीयं सम्प्रदायाश्नुते फलम्।
न ताभ्यां परमं दानं किञ्चिदस्तीति मे मनः॥ 13-102-4(85555)
अन्नात्प्राणभृतस्तात प्रवर्तन्ते हि सर्वशः।
तस्मादन्नं परं लोके सर्वदानेषु कथ्यते॥ 13-102-5(85556)
अन्नाद्बलं च तेजश्च प्राणिनां वर्धते सदा।
अन्नादानमतस्तस्माच्छ्रेष्ठमाह प्रजापतिः॥ 13-102-6(85557)
सावित्र्या ह्यपि कौन्तेय श्रूयते वचनं शुभम्।
यच्चेदं नान्यथा चैतद्देव सत्रे महामखे॥ 13-102-7(85558)
अन्ने दत्ते नरेणेह प्राणा दत्ता भवन्त्युत।
प्राणदानाद्धि परमं न दानमिह विद्यते॥ 13-102-8(85559)
श्रुतं हि ते महाबाहो लोमशस्यापि तद्वचः।
प्राणान्दत्त्वा कपोताय यत्प्राप्तं शिबिना पुरा॥ 13-102-9(85560)
यां गतिं लभते दत्त्वा द्विजस्यान्न विशाम्पते।
ततो विशिष्टां गच्छन्ति प्राणदा इति नः श्रुतं॥ 13-102-10(85561)
अन्नं चापि प्रभवति पानीयात्कुरुसत्तम।
नीरजातेन हि विना न किञ्चित्सम्प्रवर्तते॥ 13-102-11(85562)
नीरजातश्च भगवान्सोमो ग्रहगणेश्वरः।
अमृतं च सुधा चैव सुधा चैवामृतं तथा॥ 13-102-12(85563)
अन्नौषध्यो महाराज वीरुधश्च जलोद्भवाः।
यतः प्राणभृतां प्राणाः सम्भवन्ति विशाम्पते॥ 13-102-13(85564)
देवानाममृतं ह्यन्नं नागानां च सुधा तथा।
पितॄणां च स्वधा प्रोक्ता पशूनां चापि वीरुधः॥ 13-102-14(85565)
अन्नमेव मनुष्याणां प्राणानाहुर्मनीषिणः।
तच्च सर्वं नरव्याघ्र पानीयात्सम्प्रवर्तते॥ 13-102-15(85566)
तस्मात्पानीयदानाद्वै न परं विद्यते क्वचित्।
तच्च दद्यान्नरो नित्यं यदीच्छेद्भूतिमात्मनः॥ 13-102-16(85567)
धन्यं यशस्यमायुष्यं जलदानमिहोच्यते।
शत्रूंश्चाप्यधि कौन्तेय सदा तिष्ठति तोयदः॥ 13-102-17(85568)
सर्वकामानवाप्नोति कीर्तिं चैव हि शाश्वतीम्।
प्रेत्य चानन्त्यमश्नाति पापेभ्यश्च प्रमुच्यते॥ 13-102-18(85569)
तोयदो मनुजव्याघ्र स्वर्गं गत्वा महाद्युते।
अक्षयान्समवाप्नोति लोकानित्यब्रवीन्मनुः॥ ॥ 13-102-19(85570)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्व्यधिकशततमोऽध्यायः॥ 102 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-102-11 नीरजातेन जलोद्भवेन धान्यादिना॥ 7-102-12 स्वधा चैव सुरा तथेति ध.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|